📚 श्रीमद्भागवतम् (बहुटीकासहितम्) - स्कन्धः १
Page 1
Download 📥
________________ तत्र श्री अने श्रीमद रागवतं समुपायत की गवतविया पिउन ॐ तत्सत् श्रीगणेशाय नमः श्रीमद्भागवतम् अनेकव्याख्यासमलङ्कृतम् - प्रथमः स्कन्धः अथ प्रथमोऽध्यायः ॐ नमो भगवते वासुदेवाय जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्त कुहकं सत्यं परं धीमहि ॥ १ ॥ अर्थेषु (काकार्येषु ) अन्वयादितरतश्च ( अन्वव्यतिरेकाभ्यां योऽस्ति ), ( अत एव ) अस्य ( जगतः ) जन्मादि ( जन्मस्थितिभङ्ग ) यतः ( भवति तं ), ( ततः ) यः (च ) अभिज्ञः ( सर्वज्ञः ) स्वराट् ( स्वतः सिद्धज्ञानवान् तं ), यत् ( यस्मिन् ब्रह्मणि वेदे ) सूरयः (ब्रह्मादयोऽपि ) मुह्यन्ति ( तत् ) ब्रह्म ( तं वेदं ) आदिकवये (ब्रह्मणे ) हृदा (मनसैव यः ) तेने ( प्रकाशि- तवान् तं ), ( किञ्च ) यथा तेजोवारिमृदां विनिमयः ( अन्यस्मिन्नन्यावभासः तेजसि वारिबुद्धिर्मृगतृष्णायां मृदि काचादौ जलबुद्धि- रित्यादि तथा ) यत्र ( शुद्धभगवत्स्वरूपे ) त्रिसर्ग: ( मायागुणसर्गः भूतेन्द्रियदेवतारूपः ) अमृषा ( सत्यः ) ( मृषा वा ) (किश्च ) स्वेन धाम्ना (तेजसा ) सदा निरस्तकुहकं सत्यं परं ( परमेश्वरं ) धीमहि ( ध्यायेम ) इति समस्तान्वयः ॥ १ ॥ अथ श्रीधरस्वामिविरचिता भावार्थदीपिका । ॐ नमो भगवते परमहंसास्वादितचरणकमलचिन्मकरन्दाय भक्तजनमानसनिवासाय श्रीरामचन्द्राय | वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ते हृदये सम्वित् तं नृसिंहमहं भजे ॥ १ ॥ विश्वसर्गविसर्गादिनवलक्षणलक्षितम् । श्रीकृष्णाख्यं परं धाम जगद्धाम नमामि तत् ॥ २॥ माधवोमाधवावीशी सर्वसिद्धिविधायिनौ । वन्दे परस्परात्मानौ परस्परनतिप्रियौ ॥ ३ ॥ सम्प्रदायानुरोधेन पौर्वापर्यानुसारतः । श्रीभागवत भावार्थदीपिकेयं प्रतन्यते ॥ ४ ॥ काहं मन्दमतिः केदं मथनं क्षीरवारिधेः । किं तत्र परमाणुर्वै यत्र मज्जति मन्दरः ॥ ५ ॥ मूकं करोति वाचालं पङ्ग लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ६ ॥ श्रीमद्भागवताभिधः सुरतरुस्ताराङ्करः सज्जनिः स्कन्धैर्द्वादशभिस्ततः प्रविलसद्भन्यालवालोदयः । द्वात्रिंशत्रिशतञ्च यस्य विलसच्छाखाः सहस्राण्यलं पर्णान्यष्टदशेष्टदोऽतिसुलभो वर्वर्ति सर्वोपरि ॥ ७ ॥ नानाशास्त्रप्रबन्धैश्चित्तप्रसत्तिमलभमानस्तत्र तत्रापरितुष्यन्नारदोपदेशतः श्रीमद्भगवद्गुणानुवर्णनप्रधानं श्रीमद्भागवतशास्त्रं प्रारिप्सुर्वेदव्यासस्तत्प्रत्यूहनिवृत्त्यादिसिद्धये तत्प्रतिपाद्य परदेवतानुस्मरणलक्षणं मङ्गलमाचरति - जन्माद्यस्येति । पर